मुख्यपृष्ठम्

शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
भगवान् महावीरः

जैनदर्शनम् भारतीयदर्शनेषु अन्यतमं वर्तते। चार्वाकविचारधाराया अनन्तरं नास्तिकदर्शनेषु जैनदर्शनस्य महत्त्वपूर्णं स्थानमस्ति। चार्वाकमतस्य स्थूलतत्त्वानां चिन्तनस्य अपेक्षया सूक्ष्मचिन्तनं प्रति दृष्टिकोणस्य प्रावाहिकता जैनदर्शने दृश्यते। यत्र चार्वाकः शरीरमेवात्मानं स्वीकरोति तत्र जैनदर्शनेन आत्मा इति शरीरातिरिक्तम् अभौतिकं तत्त्वं स्वीकृतम्। तच्च शरीरपरिमाणं मध्यमपरिमाणं वाऽभिमतम्। वैदिकदर्शने प्रायेणेदं प्रतिपादितमस्ति यदात्मा अणुपरिमाणो महत्प्रमाणो वाऽस्ति-‘अणोरणीयान् महतो महीयानिति'। अणुपरिमाणस्य महत्परिमाणस्य वा नित्यत्वात् आत्मा नित्योऽस्ति इति वैदिका मन्वते। तन्मतानुसारेण मध्यमपरिमाणात्मकाः पदार्था अनित्याः सन्ति। जैनदर्शने मध्यमपरिमाणः आत्मा नित्योऽस्ति। स भौतिकपदार्थवत् अनित्योऽस्ति। (अधिकवाचनाय »)



অবদানকারীর জন্য পাঠ্য
अद्यतनं चित्रम्

हृदयम्

Blausen 0451 Heart Anterior.png



आधुनिकलेखः
आधुनिकाः लेखाः
कस्तूरबा गान्धी

कस्तूरबा गान्धी महात्मनः अर्धम् अङ्गम्। भारतीयस्वतन्त्रतासङ्ग्रामे तस्याः महत् योगदानं वर्तते। स्वास्थ्यस्य विचारमपि अकृत्वा सत्याग्रहान्दोलनाय स्वयोगदानम् अयच्छत् सा। उन्नतपर्वतस्य समीपस्थानि लघुशिखराणि यथा स्वस्य औन्नत्यं सिद्धं कर्तुं न शक्नुवन्ति, तथैव महात्मनः विशालव्यक्तित्वस्य छायायां कस्तूरबा स्वप्रतिभां सिद्धयितुं न शक्तवती। परन्तु उन्नतपर्वतस्य औन्नत्यस्य आधारस्तु समीपस्थानि लघु शिखराणि एव भवन्ति। तथैव महात्मनः विशालव्यक्तित्वस्य एकः आधारः कस्तूरबा अपि आसीत्। सा सुख-दुःखेषु महात्मना सह स्थित्वा पत्नीधर्मस्य, राष्ट्रधर्मस्य च उत्तरदायित्वम् अवहत्। (अधिकवाचनाय »)




प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
पञ्च महाकाव्यानि, तेषां रचयितार: च -
रघुवंशम् - कालिदासः
कुमारसम्भवम् - कालिदासः
किरातार्जुनीयम् - भारविः
शिशुपालवधम् - माघः
नैषधीयचरितम् - श्रीहर्षः



वर्तमानघटनाः
अद्यतनं सुभाषितम्
साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः।

तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम् ॥

सु.भा. - कुपण्डितनिन्दा (४१/३०)

गद्यात्मकं पद्यात्मकं च काव्यं, विचारप्रधानं शास्त्रं च साहित्यशब्देन विवक्षितम्। साहित्येन ज्ञानम् अभिवर्धते, सङ्गीतेन, शिल्पेन (कलया) च आत्मसन्तोषः भवति। एषु त्रिषु एकस्य वा ज्ञानं मानवस्य आवश्यकम्। एकस्मिन् अपि विषये यस्य उत्साहः न भवति सः पशुः एव। पशोः पुच्छं शृङ्गे च भवन्ति, एतस्य मनुष्यस्य तु तानि न सन्ति इत्येव भेदः। अपरोऽपि भेदः अस्ति यत् एषः तृणं न खादति, पशवः तु खादन्ति। किन्तु एतत् पशूनां परमं भाग्यमेव। अन्यथा पशूनां तृणम् एव दुर्लभं स्यात् !


सहपरियोजनाः